यतीति । राजा चन्द्रो नृपतिश्च । तदनयोः श्लिष्टोक्तिविषयतया न पूर्वापरभावो विभाव्यते । चन्द्रांशुपराभूतध्वान्तराजीनृपतिविरुद्धदुरन्तयोरपि दर्शयन्तीति शत्रा, सद्य इति तद्धितेन च समत्वम् । किंतु ध्वान्तराजी परभवं यातीति दृष्टान्तोक्तौ सत्यां मध्ये राजविरुद्धानामिति दर्ष्टान्तिकमुक्त्वा पुनरपि दृष्टान्तविशेषणं दर्शयन्तीत्युक्तम् । अतएवोक्तिकवलीकृतत्वाद्दृष्टान्तदार्ष्टान्तिकयोः समत्वमित्याशयवान्व्याचष्टे—अत्र राजविरुद्धानामिति ।