ण उण वरेति । गुणो धैर्यादिस्तन्त्री च, वंशः कुलं वेणुश्च, टङ्कारोऽव्यक्तानुकरणं ख्यातिश्च । इतरेतरयोगवदिति । तथाहि—‘त्वन्मुखं पुण्डरीकं च फुल्ले’ इत्यत्र फुल्लं चेतीतरेतरयोगेनैकशेषे एकयोक्त्या फुल्लेति द्वाभ्यां संबध्यते । तथा विनाप्येकशेषं गुणवज्जिएण वंसुप्पण्णे टङ्कार इति युगपदन्वीयन्ते । ननु यथा राजविरुद्धानामित्यत्र शेषेण ऋजुत्वं तथात्रापि भविष्यतीत्यत आह—श्लिष्टपदत्वेऽपीति । धनुषीव मानुषेऽपि महाञ्शब्दो भवतीति विवक्षितम् । न च व्यतिरेकमुखेनोपनयेऽयमर्थः शब्दादवगम्यते, प्रतीयते चार्थ इति युक्तं वक्रत्वम् । ननु व्यतिरेकेणैव कथं न तुल्यवृत्तिता संमतेत्यत आह—गुणवृत्त्या चेति । सत्यमेतत्तथापि द्वयोर्वर्णनीययोर्गुणादिकयोरभेदाध्यवसायो वक्तव्यः । तथा गौणवृत्तिव्यपाश्रयेणैव वक्रत्वम् । तदिदमुक्तं व्यतिरेकमुखेन गुणवृत्त्या चेति ।

व्यतिरेकं विना दृष्टान्तदार्ष्टान्तिकभावाभावाव्द्य132तिरेकाभ्यां तल्लक्षणमाह—

  1. द्वाभ्यामिति युक्तं प्रतिभाति ।