शब्दोपात्त इति । भेदाभिधानं वैधर्म्यकथनम् । एवं चेत् मेरुसर्षपयोरपितथाभिधानमलंकारः स्यादत उक्तम्—सादृश्ये वस्तुनोरिति । उपमानोपमेययोरित्यर्थः । सादृश्यं द्विधा । शब्दोपात्तं प्रतीतं च । अशब्दोपात्तमपि ध्वननानुमानादिभिरवगम्यत इति न विरोधस्तदिदमुक्तम्—प्रतीते वेति । तदयमर्थः—उद्भूतचमत्कारिसादृश्ययोर्वैरस्योक्तिर्व्यतिरेकः, स्वरूपाख्यस्तु पृथग् भेदो नास्त्येवेत्युक्तम् ॥

विभागं दर्शयति—