स्वजातीयेति । येन रूपेण वैयतिरेक्यमुपादीयते तद्रूपवन्तं व्यतिरेकप्रति-356 योगिनं परिकल्प्य ततो व्यतिरेकोऽपीति स्वजातिव्यतिरेकः प्रथमः प्रकारः । द्वितीयस्तु सैव व्यक्तिर्विधर्मेति । एतत्प्रकारद्वयं यथासंख्यमभिधीयमानसादृश्ययोरिति मूलभेदद्वयं तथैवापरमेकानेकलक्षणं प्रकारद्वयं तत्रैवान्यत्सादृश्यवैसादृश्यरूपं द्वयमिति क्रमेण षोढा भेदो विवक्षितः । यथा च स्वजातिव्यतिरेंकयोः प्रतीयमानाभिधीयमानसादृश्यगामिता न संभवति तथाग्रे वक्ष्यते ॥