अत्र नभःसरसोः प्रतीयमानसादृश्ययोर्निर्मलेन्दुत्वं विकचाब्जत्वं च प्राग्वदेव सदृशे भेदके; ताभ्यां च मुखचन्द्रमुखकमलाभ्यां मनोहराह्लादकत्वाभ्यां च प्रतीयमानसादृश्ययोरेव रामलक्ष्मणयोर्येयं मुखपर्यश्रुता, तनौ च म्लानिर्निर्मलेन्दुताविराजमानयोर्विकचाब्जत्वशोभमानत्वयोश्च सा विसदृशीति सोऽयं सदृशासदृशभेदकत्वकृतभेद एव तदुभय- व्यतिरेकः ॥