मूले पञ्चेति । अधोऽधः स्थूलपुष्पस्य संनिवेश उपर्युपरि तनुरिति दूर्वापूजाप्रकारः प्रसिद्धः । अन्यतमालोकननिमित्तैरारोपितैः । अत्र लोकप्रसिद्धपूजाप्रकारः कार्यभूतः । उपर्युपरि तनुसंनिवेशनिष्पादनं सहकारि । इदं च रावणप्रयत्ननिष्पाद्यत्वाददैवकृतं बुद्धिपूर्वं च भवतीत्यन्यतमेन मूर्ध्नान्यतमस्यारोपणं न नवमच्छेदपर्यन्तमासीत् । पूजास्वरूपेणैव भगवांस्तुष्यति न तथा विदितेनेत्यभिप्रायवतो निस्तरङ्गा भक्तिस्तेन साहसस्याद्भुतत्वम् ॥