वस्त्वन्तरेति । वस्तूनामिति श्लिष्टषष्ठी । वस्त्वन्तरेण तिरस्कारे इति कर्मणि । वस्त्वन्तरस्य तिरस्कार इति कर्तरि । फलतः स एवार्थः । तथाचोत्कृष्टगुणेनापकृष्टगुणस्य तिरस्करणं न्यग्भावनमिति लक्षणार्थः । पृथग्रूपतिरस्कारेणैकरूपतापत्तिर्मीलितमुच्यते । तथाच कातन्त्रम्—‘मीलितं युक्तमुच्यते’ इति । अभिप्रायपूर्वस्तिरस्कारो द्विविधः—सिद्धाभिप्रायफलोऽसिद्धाभिप्रायफलश्च यथाक्रमं पिहितापिहिते । न चैतावता विशेषेण पृथग्भावः; सामान्यलक्षणव्याप्तत्वादवान्तरभङ्गीनामानन्त्याच्च । स रूपगुणेन तिरस्कारस्तद्गुणो विरूपगुणेनातद्गुणः । एतावपि मीलितविशेषाविति स्फुटम् ॥