अत्रातिसौन्दर्येण देवीभ्रान्त्या शालिवनगोपिकामालोकयतां पथिकानां तदक्षिनिरीक्षणेऽयमभिप्रायः—‘शालिवनतिरस्कारेण देवमानुषयोर्विशेषभूतः पभ्द्यामेव भूमिस्पर्शो भूम्यस्पर्शो वा न लक्ष्यत इति तदक्षिणी एव पश्यामो यदियं निमिषति तदा मानुषीयं यदि न निमिषति तदा देवीयम् ।’ इति सर्वाङ्गसुन्दर्या अपि पथिकानामेव जायमानो भावो नेह केनचित्कर्मणोद्भिद्यत इत्येकतो निरुद्भेदश्चायं भावः ॥