अत्रागच्छन्तीं हालिकस्नुषां दृष्ट्वा गृहपतिसूनोर्गोदावरीतटे यदवस्थानम्, यश्च तमवलोक्य तस्या दुरुत्तरमार्गेणावतरणारम्भस्तत्रायं तयोरभिप्रायो हस्तावलम्बदानेनावयोरङ्गसङ्गमः संपद्यतामिति । स चाभितो द्वयोरपि जायमानो नेह केनचित्कर्मणोद्भिद्यत इत्यभितो निरुद्भेदश्चायं भावः ।