ननु च सूक्ष्मः कथं पूर्वोक्तात्सूक्ष्माद्भिद्यत इत्यत आह—इङ्गिताकारलक्ष्या- दिति । कदा नौ संगमो भावीत्यभिप्रायस्य व्यञ्जकं नेङ्गितं न विकारो वा कान्तस्य कश्चिदुपात्तः, अवेत्येत्यादिप्रकाशिताभिप्रायानुगुणा काचिदस्ति क्रिया वा । कथमन्यथा तमुद्दिश्य लीलापद्मनिमीलनं संगच्छते । तस्मादन्यमेवेदं सूक्ष्मं भावलक्षणाक्रान्तम् ॥