उत्तरार्धस्योदाहरणं व्युत्पादयति—अत्र पद्मसंमीलनाच्चेति । एवं चेत् प्राप्तमिङ्गितलक्ष्यत्वमत आह—तत्र चेति । आजानिकं पद्ममीलनमनुकार्यं 380 कान्ताहस्ताङ्गुलीजनितमनुकरणं रात्रौ समागमो भविष्यतीति कान्तागतोऽभिप्रायः । न तु निमीलनमनुकार्याव्द्यभिचरितमेतमर्थमवबोधयतीत्यर्थः ॥