तदिदमनिर्दिष्टवक्तृकमनादिलोकप्रसिद्धिपरम्परायातमैतिह्यम् । अत्रापि सर्ववाक्यानां विधिनिषेधयोः पर्यवसानात्—‘तस्मादक्षं न सेवेत, पिचुमन्दं न कृन्तेत, वटं न छिन्द्यात्, पद्मं न मूर्ध्नि बिभृयात्, मधूकं 387 न पदा स्पृशेत्’ इत्यध्याहारो भवति । सोऽयं निषेधरूप आगमः । उभयमप्येतन्नावश्यानुष्ठेयमिति मघ्यमम् ॥