अत्र यदानुभूतनायकसंदर्शनायास्तद्रूपालेख्यप्रदर्शनादेवंभूतः स इति विज्ञानमुत्पद्यते, गोपनार्थं च तथाभूतयोरेव देवकुलादिदृष्टविष्णुकामयोः प्रतीतिर्भवति, तदैतदनुभूतार्थविषयं भवति । यदा पुनरननुभूतनायकादिसंदर्शनाया इत्थमाप्तोपदेशः । एवंभूतः सुपर्णकेतुश्चक्रपाणिर्विष्णुर्भवति, एवंभूतो मकरध्वजः पुष्पचापः कामो भवति, यादृशाविमौ तादृशश्च ते मनोरथभूमिः; केवलमस्य गरुत्मदादयो न विद्यन्ते । तदा तदुत्तरकालमालेख्यगततदाकारदर्शनात् सोऽयं मम प्रेयानिति मद्विधया कयापि लिखितो भविष्यतीति तद्गोपायाम्येनं विष्णुचिह्नाभ्यामिति गरुत्मच्चक्रे अधःप्रदेशहस्तयोः केतुहस्तयोर्निवेशयति । अथापरा प्रतिविधित्सुर्गोपायन्ती प्रकाशयन्ती च प्रत्यासन्नोपमानं मन्मथाकारमाचिख्यासुः करे पौष्पं चापं मकरमुपरिष्टाच्च लिखति । अत्राकृतौ पदार्थे या इमास्तयोर्लोकानां सोऽयमिति विष्णुरिति काम इति च संज्ञासंज्ञिसंबन्धप्रतिपत्तयस्तदिदमनुभूतार्थविषयमुपमानमालेख्यमाख्यायते ॥