अत्र यदा तावदेवं संबन्धग्रहः कीदृशं स्वं मुखं यादृशमादर्शे प्रतिबिम्बं तदालोकनाददृष्टेऽपि स्वमुखे येयमीदृशं मे मुखमिति प्रतिपत्तिस्तदिदमनुभूतार्थविषयम् । यदा पुनरित्थमाप्तोपदेशाद्यादृशं वस्तु तादृशमादर्शादौ प्रतिबिम्बं तदापि प्रियप्रतिबिम्बालोकनादिदं तन्मम प्रियप्रतिबिम्बमितीयं संज्ञासंज्ञिसंबन्धप्रतिपत्तिस्तदप्यननुभूतार्थविष-392 यम् । यदा तु चित्रादिष्वनुभूतस्वमुखदर्शनायाः प्रतिबिम्बदर्शनादनेन सदृशं मे मुखमिति प्रतिपत्तिर्दृष्टप्रियतमाकारायाश्च प्रतिबिम्बाकारदर्शनादेतदाकारो मम प्रेयानिति प्रतिपत्तिः प्रतिबिम्बसंनिधौ प्रतिबिम्बोदयो दृष्टस्तदिह संनिहितेन तेन भवितव्यमिति यो व्रीडाविकारभूतस्तदानुभूतविषयमेतदुपमानं प्रतिबिम्बमित्याचक्षते ॥