अत्र स्तनभरनितम्बयोर्मध्यं नोपलभ्यते, स्तनभरावस्थानं च दृश्यते, तत्र येयं पयोधरभरस्थितिः सान्यथानुपपद्यमाना धारकं मध्यमनुपलभ्यमानं बोधयति । सेयं प्रत्यक्षपूर्विकार्थापत्तिरेकश एवेह विवक्षिता । इयमपि ह्येवं बहुशो भवति यत्तदर्थापत्तिलब्धं मध्यं तदपि 393 धारणशक्तिमन्तरेण तत्कर्मासमर्थमिति तस्यपि शक्तिः कल्प्यते । सेयमर्थापत्तिपूर्विकार्थापत्तिः । यश्चायमर्थापत्तिविकल्पस्य मध्यस्योपलम्भाभावः सोऽपि प्रकारन्तरेणासंभवन् कान्तिकार्श्ययोरुत्कर्षं ब्रूते । सा चेयमभावपूर्विकानुपपत्तिर्भवति । न चैतदिह शाब्दमपि तु वाक्यार्थ- सामर्थ्याद्गम्यते ॥