अत्र स्तनभरेति । स्तनभरस्थितिः प्रत्यक्षगृहीता सा चाधारमन्तरेणानुपपद्यमाना मध्यं कल्पयति । सा च कल्पनार्थापत्तिः । अनुपलभ्यमानमिति । अन्यथा प्रत्यक्षगृहीतेऽर्थे किमर्थापत्त्या । अत्रैवोदाहरणेऽनेकशो व्याख्यातुं शक्यत इत्याह—इयमपीति । शक्तिर्मीमांसकनये नित्यातीन्द्रिया, अभावोऽभावेनैव गृह्यत इति मध्यानुपलम्भोऽभावप्रमाणपूर्वकः । कान्तीति । अद्भुतप्रभावतिरस्कृतं हि नयनमासन्नमपि न मध्यग्रहणसमर्थमिति भावः ॥