तत्रेदं रूपमप्रतिमं तवेति प्रत्यक्षपूर्वता अभावपूर्वता च व्यक्तमेव प्रतीयते । तेनेयमनेकशः । अत्रापि येयं रूपस्याप्रतिमतान्यथानुपपद्यमाना कलातत्त्वगुरुविनिर्मितत्वमात्मनोऽवस्थापयति सोर्वश्यहल्यादिरूपोपमानज्ञानपूर्विका, या तत्कर्तुरर्थापत्तिकल्पिता कालातत्त्वगुरुता सापि तथाविधशक्तिकल्पनापूर्विकेत्युपमानपूर्विकार्थापात्तिपूर्विका चेयमर्थापत्तिः । सापि तत्कर्तुर्वेधसः कलातत्त्वगुरुता तथाभूतशक्त्याधारता वा, साप्यनुमानत आगमतो वाज्ञस्य कल्प्यत इत्यनुमानपूर्विका चेयमर्थापत्तिः । न चैतच्चतुष्टयमिहापि शाब्दमपि तु वाक्यार्थसामर्थ्याद्गम्यते ॥