अभावं लक्षयति—असत्तेति । प्रागसत्त्वमुत्तरासत्त्वमित्यसत्तारूपेणैव प्रागभावादयो व्यवतिष्ठन्ते इतरेतराभावेऽप्यन्यरूपतयान्यस्याभाव इत्यसत्तात्मकत्वम् । प्रागभावादयः पूर्वोदिताश्चत्वारः । अत्यन्ताभावविशेषसामान्याभावाभ्यां सह षडभावाः । तयोर्विशेषमग्रे वक्ष्यामः ॥