अनेक इति । यथा च स्वरूपसंपादकातिरिक्तविशेषप्रवेशाद्विचित्राः स्रग्दामादयस्तथेयमपीति दर्शयति—विचित्रा यत्रेति । तां विभावनाम् । तया विभावनया । अन्ययेति अलंकारान्तररूपया ॥