असंभृतमिति । ननु मण्डनस्य संभरणपूर्वकतया प्रसिद्धेरस्तु विभावना । ‘अनासवाख्यं करणं मदस्य कामस्य पुष्पव्यतिरिक्तमस्त्रम्’ इत्यत्र तु कथम् । तथाहि । करणमिति करणे वा ल्युट्र । आद्ये मदस्य करणमासवो वयस्तु ततो भिन्नमिति कदाचिव्द्यतिरेकः स्यान्नतु विभावना । द्वितीयेऽपि वयो मदस्य क्रिया आसवनाम्नी न भवतीति न संगतम् । एवं पुष्पव्यतिरिक्तमस्त्रमित्यत्रापि विकल्प्य यथायथं दूषणं वाच्यम् । तत्कथमेतत् । उच्यते । करणं क्रिया आसवमाख्यातीत्यासवाख्यम् । स्त्र्याख्यवत्प्रत्ययविधिः । न तथाभूतमनासवाख्यम् । हेतुतया न क्वचिदासवबोधक्षमम् । तथा हेतुप्रतिषेध एव भङ्ग्या दर्शितो भवति । अस्त्रमपि क्रियारूपं तत्पुष्पव्यतिरिक्तं पुष्पच्युतं विना पुष्पेभ्य इति पूर्ववदुन्नेयम् । स्तनोद्भेदेत्यादौ नार्थसंदेहः ॥