हेतुप्रतिषेधो विभावनायामुक्तः, अथ हेतुरेव क इत्यपेक्षायां हेतुलक्षणमाह—क्रियायाः कारणं हेतुरिति । उपपत्तौ क्रियायामेव सर्वस्य निमित्तभावो निरूप्यत इत्यभिसंधाय क्रियाया इत्युक्तमिति कश्चित् । तदसत् । द्रव्यगुणक्रिया-321 विषये हेतुः क्रियामात्रविषयश्च कारकमिति प्रकीर्णप्रवृत्तौ विभागकरणात्क्रियाग्रहणं चेह निष्फलं स्यात् । तस्माद्यत्र क्रियां प्रत्यवधिभावो निरूप्यते तत्र द्वयीगतिर्निमित्तत्वमात्रविवक्षा अवस्तुविवक्षा वा, द्वितीयेऽपि कारकत्वविवक्षा वा । आद्येऽप्याश्रितावधिभावस्य वस्त्वन्तरपरहेतुभावविवक्षा अवस्तुत्वविवक्षा वा । द्वितीयेऽपि कारकत्वक्रियानुबन्धिव्यापारत्वम् । प्रधानक्रियानुकूलक्रियान्तरसमावेश इति यावत् । तद्द्विविधं शब्दाभिहितम्, अतथाभूतं च । आद्यं कारकविभक्तेर्विषयः, द्वितीयं हेतुविभक्तेः । द्वयमपि च क्रियाविषयमेव । षण्णामपि कारकाणां क्रियाघटितमूर्तित्वात् । अवस्तुभूतं तु निमित्तमभावात्मकतया न विक्रियते । विकाराभावाच्च न क्रियाविशिष्टमतथाभावे । न च कारकमिति तृतीय एव प्रकारः प्रसिद्धकार्यकारणभावविपर्यासेनोपनिबध्यमानो हेतुराश्चर्यकारितया चित्र आरोपितमपि च हेतुत्वं हेतुत्वमेवेति भवति चतुर्थः प्रकारः । बहिरसंभाव्यमानस्यापि कविप्रतिभासंरम्भोत्थाप्यतया चमत्कारविशेषार्पणादक्षुण्णैवालंकारता । यदाह—‘को हि प्रतीतिमात्रकाव्ये वस्तुस्थितिं भावयेत्’ इति । तदेतत्सर्वमभिसंधाय विभागमाह—कारक इत्यादि ॥