तस्मिञ्जीवतीति । जीवनमरणयोर्बलस्यैव स्वातन्त्र्यं हनूमान्प्रयोजयति । प्रयोजकता चास्य (ते एव) जीवत्युज्झितप्राणे इति पदाभ्यामुपात्ता । कतभत्कारकमिदं भवतीत्याह—सप्तमीवाच्येति । ननु च—‘अङ्गुल्यग्रे मदकलघटान्दर्शयन्तीव धूर्ता’ इत्यादौ काल्पनिकादावपि सप्तमीभावात्कथं कारकतेत्यत आह—नैमित्तिकेति । अन्यस्यासंभवादिति भावः ॥