तेष्विति । कालकृतो विशेषोऽवस्था । तामधिकृत्य जायन्ते वस्तुस्वरूपव्यभिचारिण्युत्पद्यन्ते । नन्वेवं ‘य एते यज्ज्वानः प्रथितमहसो येऽप्यवनिपा मृगाक्ष्यो याश्चैताः कृतमपरसंसारकथया । अहो ये चाप्यन्ये फलकुसुमनम्रा विटपिनो जगत्येवंरूपा विलसति मृदेषा भगवती ॥’ इत्यादावपि जातित्वं स्यादित्यत आह—स्वेभ्यः स्वेभ्य इति । स्वभावभूतानीत्यर्थः । कविप्रतिभामात्रप्रकाशनीयरूपोट्टङ्कनं जातिरिति लक्षणम् । लौकिकविकल्पविषयोऽपि प्रतिभया भासत एव । यदाह— ‘रसानुगुणशब्दार्थचिन्तास्तिमिचचेतसः । क्षणं विशेषस्पर्शोत्था प्रज्ञैव प्रतिभा कवेः । स हि चक्षुर्भगवतस्तृतीयमिति गीयते । येन साक्षात्करोत्येष भावांस्त्रैलोक्यवर्तिनः ॥’ इति ॥

उक्तमेव विशेषमभिसंधायाह—