अर्थव्यक्तेरिति । वस्तुस्वरूपोल्लेखनरूपार्थव्यक्तिरर्थगुणेषूक्ता । तत्र सार्वकालिकं रूपमुपजनापायान्तरालव्यापकमित्यर्थः । अत्र तु जायमानमागन्तुनिमित्तं समवधानप्रभवं व्यभिचरितमित्यर्थः । विच्छित्तिप्रकारयोरसंकरात्पृथक्शोभार्पणाच्च युक्तो व्यतिरेकस्तेन स्वभावोक्तिरेवार्थव्यक्तिरिति यत्केनचिदुक्तं तदपास्तम् । अत एव जात्यन्तरप्रकाराणामपि पृथगलंकारता स्यादिति न युक्तमवान्तरवचसैव व्याघातात् । न हि सामान्यविशेषयोर्विभागो भवति ॥