सहजः कार्ये सहोत्पत्तिकतया निबद्धः । कारणशक्तिप्रकर्षात्समकालमिव कार्यं प्रतिभासते, तेन हेतुशक्तिप्रकर्षाभिव्यक्तिरत्र मूलम् । ‘यदग्रे ददति यथा वा कर्तुमीशते’ इति । एवमनन्तरजेऽपि किं कारणं पूर्वमुत कार्यमस्ति स एव व्यङ्ग्यः । युक्तेऽपि कारणगुणानुविधायि कार्यमसदेवारोप्यते न प्रमुक्तेति तदेव विपरीतमिति गौणवृत्त्याश्रयता ॥