स्वरूपमिति । आश्रयविशेषहेतुविशेषव्यतिरिक्तोऽवच्छेदकप्रकारः स्वरूपम् । एतदेव विभजते—ते संस्थानादय इति । ननु किमनेन प्रपञ्चेन पूर्वाभिहि- 313 तरूपमात्रस्यैव जातित्वादित्यत आह—तेषु सेति । विशेषेण शोभाहेतुरेव ह्यलंकारः । अस्ति चात्र तथाभाव इति भावः ॥

तत्र स्वरूपं द्विधा । शरीरावयवसंनिवेशलक्षणमतादृशं च । आद्यमपि बुद्धि- कारितमतथाभूतं च । तदेतदाह—