इङ्गितेति । इङ्गितमाकार इङ्गिताकारौ चेत्यर्थः । शरीरावयवव्यापार इङ्गितम् । रूपादेरन्यथात्वमाकारः । सूक्ष्मार्थदर्शनं सूक्ष्ममित्यर्थगुणेषूक्तं तेन पौनरुक्त्यमाशङ्क्याह—सूक्ष्मगुणात्तु स इति । हृदयसंवादभागित्रिचतुरहृदयसंवेद्यस्य । अत एवातिसूक्ष्मार्थस्य प्रत्यक्षायमाणत्वात्सूक्ष्मो नामार्थगुणः । यथाहि कवेः प्रतिभा सूक्ष्मविशेषोल्लेखिनी तथा तन्मूलकः शब्दोऽपीति स्फुटाभतया प्रत्यक्ष-335 प्रमेयज्ञानमुत्पद्यते । तथाह्यन्योन्यसंवलितेत्यादौ दम्पत्योर्मिथोऽनुस्मृतिलक्षणस्य प्रेम्णः कतिपयसंवेद्यस्यापि शब्दबलात्प्रत्यक्षायमाणत्वमनुभवसिद्धमेव । तदेतदाह—सूक्ष्मात्प्रत्यक्षत इति । सूक्ष्मालंकारे तु कविप्रतिभाया लिङ्गविषयत्वाच्छब्दोऽपि तद्विषय एव । लिङ्गाच्च प्रतीतिरुत्पद्यमाना सामान्यपुरस्कारेण प्रवृत्ता न प्रत्यक्षवत्तद्विशेषोल्लेखक्षमेति सूक्ष्मगुणवैधर्म्यम् । तदिदमुक्तम्—सूक्ष्मोऽप्रत्यक्ष इति । अत्र कैश्चित्प्रतीयमानस्य सूक्ष्मस्य भाव इति संज्ञां विधायालंकारान्तरमुक्तं तदसत्, सूक्ष्मसामान्यलक्षणेन क्रोडीकरणादित्याह—इङ्गिताकारलक्ष्यत्वमिति । एतेन लक्ष्यत्वपुनरुक्त्याशङ्का परिहृता । अत्र स्वयंवरेति । न च शृङ्गारचेष्टाप्रत्यर्पितस्य मनोरथशब्देनाभिधीयमानमर्थं पुनरुक्तमिति वाच्यम् । नहि यथानुरागानुभावेन चित्तवृत्तयः स्फुटा उपस्थाप्यन्ते तथा स्वशब्देनेति विस्तरेण सप्रपञ्चमेव वक्ष्यामः । स्वशब्दस्तु किमर्थमित्यवशिष्यते तत्र ब्रूमः । स्वयंवरसमाजप्रवेशादिना येषां सामान्यत उत्कण्ठा प्रतीतिपथमवतीर्णासीत्तेषामिन्दुमतीसंनिधौ तदनुभावबलेनासंख्यसूक्ष्मविशेषवती सैवाभिव्यक्तेति दृढानुबन्धलक्षणस्य प्रेम्णः प्रकर्षकाष्ठां पुष्णाति । एवमन्यत्रापि ॥