अत्र प्रतिवचनादनमिति । नहि प्रतिवचनप्रदानाभावमात्रमत्र चमत्कारकारि, तस्मादन्यथापि संभवात्, अतः प्रतिवचनप्रदानाभिप्राया विपरीतचित्तवृत्तिविशेषोन्नायिका समीपदेशापसरणादिलक्षणा क्रिया काचित्प्रतिवचनाप्रदानपदेनाभिमता । न च प्रकोपोऽप्यनुभवरूपतामनासादयन्स्वादनीयतामासादयतीति नूनं तेनापि भ्रूभङ्गादिरूपा क्रियैवाभिसंहितेत्याशयवतोक्तमिङ्गिताभ्यामिति । यद्येवं तद्धि काव्यशोभानिर्वाहात्किमन्येन लक्षिते नेति । नहि यथोक्तप्रतिवचनाद्यदानप्रकोपाभ्यां कश्चिद्विवक्षितार्थलाभ इति भावः ॥