द्रोणस्येति । समुदायज्ञानादेकदेशज्ञानसंभव इति प्राच्यानामभिप्रायः । तथा च समुदायस्य समुदायिव्याप्तत्वादियं खारी द्रोणवती खारीत्वादिति सुलभम् । अनुमान एवास्यान्तर्भाव इत्यर्थः । कथं तर्हि तवापि संभवो भिद्यते सामग्री कार्यव्याप्तेति तत्राप्यनुमानमेव भविष्यतीत्यत आह—भिद्यत इति । नहि सामग्री दृष्टा यतः कार्यमनुमीयते, किंतु प्रभूतकारणदर्शनेन कार्यस्य ज्ञानमन्यदेवोत्पद्यत इति वक्तव्यम् । तथा चास्माकं दर्शने युक्तः पृथग्भावः ॥

यस्तूदाहरणविशेषं न प्रतिसंधत्ते तं बोधयितुमुदाहरणान्तरमाह—