रूद्धापाङ्गेत्यादि । एवं विश्लेषदुःखेन कर्शिता यथाऽचेतनामप्यलकानां करुणोत्पन्नैव लक्ष्यते । तस्मादियं मा जलधरं द्राक्षीदिति निसर्गचपलस्यापाङ्गस्य प्रसरमवरुन्धन्ति । स्नेहपदेन नयनाञ्जनयोरनुपधिरनुबन्धो व्यज्यते । तेन मिथो मैत्रीयोग्यत्वम् । तेन तन्नयनादन्यत्र नाञ्जनं कान्तिमाप्नोतीति कोऽपि लावण्यप्रकर्षस्तथाभूतस्याप्यञ्जनस्य त्यागे यदेकतानतया नात्मानमपि प्रतिसंधातुं समर्थेति व्यनक्ति । एवं संपदान्तरेष्वपि स्वरसोऽनुसंधेयः । विप्रलम्भरूपकारणालोकाच्चोपरि-346 नयनस्पन्दनं संभाव्यत इति संभवद्वयमत्रेति व्याख्यानेन स्फुटयति—अत्र यथा खार्यामिति ॥

परस्परोपकारकयोरेकस्य विशेषं दृष्ट्वापरस्य विशेषो ज्ञायत इति संभवसाम्यात्त- दनन्तरमन्योन्यलक्षणमाह—