किमित्यादि । हे घनस्तनि कठिनकुचे, त्वां पश्यतो मम चित्तं दोलायते संशयारूढं भवति । तदेवाह—अन्तर्मध्ये भ्रान्तः कृतभ्रमणोऽलिर्भ्रमरो यत्र तत्किं पद्मम् । लोलमीक्षणं चक्षुर्यत्र तादृशं तव मुखं किमिति दोलायते दोलेवाचरति । क्यङ् क्यष् वा । दोलाचित्तयोरुभयकोटियोगित्वेन साम्यम् । अत्र सादृश्यं प्रतीयमानं प्रत्यक्षेण । सुगममितरत् ॥