वालीत्यादि । ‘बाली(ला) भुम्भुरभोली(?) स्खलितनिवसना ग्रहणकं श्रुत्वा विनिष्कान्ता निद्रया भेम्भली(जडा) । राहुरपि तस्या मुखं विलोकते पुनर्विलोकते गगने भ्रान्तो न खलु जानाति द्वयोश्चन्द्रः कः ॥’ इह बालिका भुम्भुरभोली अज्ञा । 447 उल्लसितं स्खलितं नितम्बोपरि निवसनं यस्याः सा । उपरीति योग्यतया वक्तव्यम् । नि द्रया भेम्भली विह्वला ग्रहणं चन्द्रोपरागं श्रुत्वा विनिष्क्रान्ता । अर्थात् गृहात् । रहुरपि तस्या मुखं विलोकते पुनर्विलोकते । गगने भ्रान्तः संशयानः सन् नैव जानाति कान्तामुखचन्द्रयोर्द्वयोर्मध्ये कश्चन्द्र इति । खलु एवार्थे । अत्र संशयशुद्धतान्यामिश्रणेन ॥