कः पुनर्वितर्कसंशययोर्विशेषः । उच्यते । निर्णयासन्नो वितर्कः, वितर्कासन्नश्च संशयः । संशयानो हि वितर्कस्य कोटिमारुह्य ततो विभ्रष्टस्तत्त्वमभिनिविशते । यथा पूर्ववाक्ये विदाम्बभूवुरिति । संशयमेव वा विगाहते यथा—'माहउ पुण त्थणगुडरे ण मुणइ कहिं वसइ ।’ इति । शब्दाश्च किंस्विदादयस्तुल्यरूपा एव संशयविपर्यययोरिति दुरवबोधस्तद्विशेषः । नन्वेवं वितर्कादयोऽप्युभयालंकाराः स्युः । स्त्यम् । किंतूक्तिपक्षे परार्थानुमानवत्, स्वरूपपक्षे स्वार्थानुमानवदिति । अयमेव चोक्तिशब्दस्यार्थः, तेन स्वरूपमात्रोक्तौ संशयवितर्कादयोऽप्यर्थालंकाराः । उक्तिप्राधान्ये तूभयालंकाराः ॥