गिम्हे इत्यादि । ‘ग्रीष्मे दावाग्निमसीमलिनितानि दृश्यन्ते विन्ध्यशिखराणि । आश्वसिहि प्रोषितपतिके न भवन्ति नवप्रावृडभ्राणि ॥’ इह विरहिणी दावाग्निना दिग्धे विन्ध्ये मेघभ्रान्त्या आर्ता सख्या समाश्वास्यते—ग्रीष्म इति । हे विरहिणि, विन्ध्यशिखराणि ग्रीष्मे वनाग्निना श्यामितानि दृश्यन्ते । नतु नूतनवर्षाकालीन(लिक)मेघा अमी भवन्तीति समाश्वासं कुरु । अत्र श्यामिकया विन्ध्यशिखरनवमे घयोः साम्यमभिहितमत औपम्यवतीयम् ॥