नेत्यादि । केतकीनां सूचयोऽग्राणि न विलसन्ति शोभन्ते । हन्त विषादे । अयं विधिः स्रष्टा प्रवासिनः पान्थान् हसत्युपहसति । केतकीसूचीरूपेण । इयं चञ्चला चपला तडिल्लता न शोभते । पुरोऽग्रे इयं स्मरदीप्तिंर्विजृम्भते प्रकाशते । 'सूच्यग्रे सीमनद्रव्ये’ इति विश्वः । अत्र किंचित्प्रकाशेन केतकीसूचीविधिहसितयोः साम्यप्रतीतिरेवमितरत्र । औपम्यमप्युभयत्र व्यक्तमेव ॥