अत्र राजकन्यानुरागलक्षणस्य रोमाञ्चकारणस्य रक्षकावगतिहेतोः 451 पूर्वमेवाभिहितस्य च वनानिलशैत्यलक्षणेन कारणान्तरेणापह्नवः । न चैतयोः सादृश्यमस्ति सेयमनौपम्याभिधीयमानापह्नोतव्यवस्तुः । कार्यात्पूर्वं कारणोपन्यासेन पूर्वेत्युच्यते ।