उर इत्यादि । ‘उरःप्रेरितवृतिकारवेल्लीफलान्युच्चिनोषि दयितवत्सले । कण्टकविलिखितपीनोन्नतस्तनि ताम्य इदानीम् ॥’ इह हे दयितवत्सले प्रियप्रेमवति कण्टकलिखितपीनोन्नतस्तनि, इदानीं ताम्योद्विग्ना भव । किं कृत्वा । उरसा वक्षसा प्रेरिता या वृतिर्वेष्टनं तत्र कारवेल्लीफलानि उच्चिनोषि त्रोटयसि । कारवेल्ली करवेल्ली । अत्र पूर्वार्धे कारणकथनात्पूर्वता । उक्तयोरनौपम्यं व्यक्तमेव । ननु नात्र साहजिकोऽपह्नवस्तत्कथमपह्नुतिरत आह—अपह्नुत्येति । आरोपेणापह्नवलक्षणयोगादपह्नुतिरित्यर्थः ॥