प्रत्यय इति । प्रत्ययार्थानां भेदादित्यर्थः । अस्फुटत्वेनाह—उदाहरणमिति । रूपव्यत्त्क्यै स्वरूपज्ञानाय । हंस इत्यादि । हे वाग्मिनि, प्रशस्तं वचनं यस्याः । यदि त्वं वदसि तदा हंसो ध्वाङ्क्षविरावी काक इव विरौति, कोकिल उष्ट्रक्रोशी उष्ट्र इव क्रुश्यति शब्दायते, मयूरः खरनादी गर्दभ इव नदति । ‘ध्वाङ्क्षात्मघोषपरमृद्बलिभुग्वायसा अपि ।’ इत्यमरः । ‘रासभो गर्दभः खरः’ इति च । इह ध्वाङ्क्ष इव विरौतीत्यादौ ‘कर्तर्युपमाने ३।२।७९’ इति णिनिप्रत्ययः उपमान उपपदे कर्तरि विहित उपमेयस्यार्थे भवति सामानाधिकरण्यानुरोधात् ॥