अत्रापि प्रियतमव्यलीकासहिष्णुः कापि कामिनी हिमानीप्लुष्टां 454 कमलिनीमालोक्य तस्यामात्मधर्मान्, प्रिये च सूर्यधर्मानारोपयति । ते च बलिः क्रियेऽहं तव रोषस्येत्यादिभिः पदैरुद्भिद्यमाना इह प्रतीयन्त इत्ययं सोद्भेदः समाधिभेदः । अन्यश्चान्यधर्माश्चान्यधर्मा 157इति व्युत्पत्त्या धर्मिणोऽप्यध्यासे समाधिरिष्यते ॥

  1. अर्थप्रदर्शनमेतत् । व्युत्पत्तिस्तु ‘अन्यश्च धर्मश्च’ इत्येव