वल्लहे इत्यादि । ‘वल्लभे लघु व्यपक्रामति पुनरागच्छति चिरेण बलिः क्रिये तामरसिनि तव रोषस्य स्थिरस्य । येन निराकुलं जल्पति किमपि न यावज्जनस्तावद्धिमेन विशीर्णा झटिति प्लुष्टतनुः ॥’ इह हे तामरसिनि पद्मिनि, वल्लभे सूर्ये लघु शीघ्रं व्यपक्रामत्यपगच्छति सति हिमसमये रात्रेदींर्घत्वाच्चिरेण पुनरागच्छति सति तव रोषस्य स्थिरस्य बलिरुपहारोऽहं क्रिये इति काचित्खण्डिता पद्मिनीमुद्दिश्य वदति । येन हेतुना निराकुलो जनो यावदेव किमपि न जल्पति तावदेव हिमेन विशीर्णा झटिति त्वं दग्धतनुरसि । व्यलीकमप्रियम् । ‘हिमानी हिमसंहतिः’ इत्यमरः । प्लुष्टां दग्धाम् । ते धर्माः । धर्मारोपरूपे समाधावव्याप्तिरत आह—अन्य इति । अन्यो धर्मीह विवक्षितो धर्मपदसंनिधेः ॥