चन्द्रेत्यादि । कयोश्चित् सिद्धयूनोः सरय्वा नदीभेदस्यास्मिन् सैकते बहुकालं वादद्वैतं वचनविवादोऽभवत् । ‘वादद्यूतम्’ इति पाठे वादो विवाद एव द्यूतमित्यर्थः । सैकते कीदृशे । चन्द्रज्योत्स्नया विशदं स्वच्छं पुलिनं तोयोत्थितभागो यत्र तत्र । अनेन रम्यतोक्ता । वादस्वरूपमाह—एकः केशिनं प्रथमनिहतं ब्रूते, अन्यः कंसं प्रथमनिहतं ब्रूते । हे भगवन्, स प्रसिद्धस्त्वं तत्त्वं यथार्थं कथय । 455 भवता तत्र तयोः केशिकंसयोर्मध्ये कः पूर्वं हत इति । सिद्धौ च तौ युवानौ चेति सिद्धयुवानौ । केशी असुरभेदः । कंसोऽप्यसुरभेदः । अत्र विष्णोस्तद्धर्माणां च चक्रधरत्वादीनामारोपः स्फुट एव ॥