प्राप्तेत्यादि । हे रामदेव, समुद्रस्य कम्प आभाति । कीदृशस्य । स्वव्याघाते सति इति वितर्कान् दधत इव । एष प्राप्तलक्ष्मीः कोऽपि कस्मात्पुनरपि मद्विषये मन्थेन मन्थनदण्डेन खेदं विदघ्यात्कुर्यात् । अनलसमनस आलस्यहीनस्यास्य निद्रामप्यपूर्वां नैव संभावयामि । अखिलद्वीपनाथो रावणस्तमनुलक्ष्यीकृत्य यातः प्रयातः पुनरयं कस्माद्धेतोः सेतुबन्धं बध्नाति । मथ्यतेऽनेनेति मन्थः । करणे 'हलश्च ३।३।१२’ इति घञ् । अत्र प्राप्तश्रीरित्यादिश्लिष्टपदैर्धर्भिण एव विष्णुरूपस्यारोपो न तु तद्धर्माणामसुरघातकत्वादीनाम् ॥