अत्र पूर्णेन्दुरिव पूर्णेन्दुरित्यादिकयोपचारवृत्त्या यद्यपि पूर्णेन्दुप्रभृतय उपमानशब्दा अप्युपमेयेषु वदनादिषु वर्तन्ते, तेभ्यश्च यद्यपि स्वार्थ एव स्वार्थिकाः कल्पबादयो भवन्ति, तथापि ते शब्दशक्तिस्वाभाव्याद्गुणभूतमुपमानार्थमात्रं ब्रुवते यथा शुक्लादिभ्यस्तरबादयः । तथा ह्ययं चं शुक्लोऽयमनयोः शुक्लतर इत्युक्ते शौक्ल्यस्यैव प्रकर्षो गम्यते न शौक्ल्यवतः । सेयमुपमानार्थप्रत्ययानाम प्रत्ययोपमासु पदोपमाभक्तिः ॥