यत्रेति । यत्रातिप्रसिद्धतयोपमानादेवैतस्योपमेयस्य ज्ञानं सा समासोक्तिः । समसनं समासः संक्षेपस्तदुक्तिरित्यन्वर्थतापि । प्रतीयमाने ज्ञायमाने वाच्येऽभिधीयमाने च सादृश्ये । श्लाघां प्रशंसाम्, गर्हां निन्दाम् । उभे श्लाघागर्हे च, नोभे अश्लाघागर्हे चैतानुपाधीन्प्रयोजकान् समासोक्तौ वदन्ति । विशेष्यमात्राभ्यां युक्तायुक्ताभ्यां भिन्नापि विशेषणद्वयभेदवती एका तुल्याकारविशेषणा, उपरा तुल्यातुल्यविशेषणा । संक्षेपोक्तौ च प्रकारद्वयं भवति तदाह—अन्येत्यादि ॥