उत्तुङ्गे इत्यादि । तस्य न्यग्रोधस्य वटवृक्षस्य श्लाघा स्वप्रशंसा स्ववचसोक्त्या किं समाप्यते । किंतु न । तस्य श्लाघा वक्तुमशक्येत्यर्थः । अङ्गेति सानुनयसंबोधने । कीदृशस्य । उत्तुङ्गे उच्छ्रिते । उच्चावचा निम्नोन्नता ये ग्रावाणः पाषाणास्तद्युक्ते च शिखरिणि गिरौ कृतावासस्य । श्लाघाहेतुमाह—स वटो बन्धुर्मित्रं वा पुरा पूर्वं कृतः । अर्थाज्जनेन । अथवा सत्कर्मणां श्रेष्ठव्यापाराणां संचय उपचयः किम् । अर्थाज्जनस्य । रूक्षा अस्निग्धा विपत्राः पत्रशून्याः शाखिनो वृक्षा यत्र तादृशे मार्गे यं वटवृक्षं प्राप्य जनो विश्राम्यति । उच्चावचेत्यत्र बहुव्रीह्यनन्तरं मतुबिति भ्रमो न कार्यः । उच्चावचग्रावाणोऽत्र सन्तीति विशिष्टस्यैव मत्वर्थसंबन्धाद्बिसकिसलयच्छेदपाथेयवन्त इतिवत्केवलाद्विशिष्टस्य भिन्नबुद्धिविषयत्वात् । अत एवादण्डीत्यादयो निस्तरङ्गं प्रयोगा इत्यवधेयम् । ‘ग्रावोपलाश्मानः’ इत्यमरः । अत्र परोपकारितया न्यग्रोधवदान्ययोः सादृश्यं प्रतीयमानं तत एवोभयोः श्लाघापि ॥