किमित्यादि । हे सद्वृक्ष, चतुष्पथे किमर्थं जातोऽस्युत्पन्नोऽसि । यदि त्वं 459 घना निबिडा छाया यस्य तादृशोऽसि तदा छायया किं वृथा । यदि संपन्नः समृद्धः सन् फलितोऽसि तदा फलभरैस्तव किम् । किंतु न तव किमपि । यद्याढयोऽसि महानसि तदा सम्यक्प्रकारेण नतः किम् । संप्रत्यधुना स्वैर्निजैरेव दुश्चेष्टितैर्जनतो लोकात्त्वं शिखायामग्रभागे शाखाशतस्याकर्षणमाकृष्टिः, क्षोभश्चालनम्, आमोटनं संकोचनम्, भञ्जनं छेदनमेतानि सहस्वानुभव । ‘आढ्य इभ्ये महत्यपि’ इति विश्वः । सहस्वेति ‘षह मर्षणे’ इति लोटि मध्यमपुरुषैकवचने रूपम् । ‘अग्रमात्रे शिखा मता’ इति धरणिः । जनत इति पञ्चम्यन्तात्तसिः । व्याजगर्हणा कपटनिन्दा वटवृक्षनिन्दां व्याजीकृत्य सत्पुरुषनिन्दोपक्रमात् ॥