निष्कन्दामित्यादि । इतरान्या वराही सूकरी सुतान् सूकरान् सूते जनयति । किं कर्तुम् । अरविन्दिनीं निष्कन्दामुन्मूलितमूलां कर्तुं, स्थपुटितो निम्नोन्नतीकृत उद्देशो यस्यास्तादृशीं स्थलीं कर्तुं, पल्वलेऽल्पसरसि अम्बु जलं जम्बालेन कर्दमेनाविलमनच्छं कर्तुम् । सा पोत्रिणी वराही पुत्रिणी प्रशस्तपुत्रवती । यस्याः शिशोरेव बालकस्यैव दंष्ट्रायामियं भूर्विपदि प्रलये स्थिता । दंष्ट्रायां कीदृश्याम् । चतुर्णामर्णवानां समुद्राणामूर्भिपटलैः कल्लोलसमूहैराप्लावितायां पूरितायाम् । व्याप्तायामिति यावत् । ‘जम्बालः पङ्कोऽस्त्री’ इत्यमरः । वराहीति ‘पुंयोगादाख्यायाम् ४।१।४८’ इति ङीष् । पुत्रिणीति प्रशंसायामिनिः । ‘वराहः सूकरो गृष्टिः कोलः पोत्री’ इत्यमरः । अत्रोभयोः सादृश्यं वराहत्वादिना प्रतीयमानम् ॥