उपाध्वमित्यादि । हे पान्थाः, तत्सरस्तडागमुपाध्वं सेवध्वम् । कीदृशम् । मार्गस्य तिलकभूतमलंकारीभूतम् । यत्सर आसाद्य गतश्रमभरा यूयं स्वेच्छं विलसथ यथेच्छं क्रीडध्वम् । इतोऽस्मात्क्षाराब्धेर्निवृत्तिरेव कल्याणी कुशलदा न पुनः कथमप्यवतारोऽत्र कुशलदः । अत्रावतरणं न कर्तव्यमिति भावः । क्षाराब्धेः कीदृशात् । जरठेन जीर्णेन कमठेन कच्छपेन क्षुण्णं पयो जलं यस्य तस्मात् । उपाध्वमिति उपपूर्व ‘आस उपवेशने’ लोण्मध्यमपुरुषबहुवचने ‘धि च ८।२।२५’ इति सकारलोपः । ‘कमठकच्छपौ’ इत्यमरः । कल्याणीति गौरादित्वान्ङीष । अत्र पूर्वार्धे सरःसज्जनयोः परोपकारत्वादिगुणैस्तुल्यैरेव सादृश्यमभिहितम् । श्लाघा तु व्यक्तैव । उत्तरार्धे तु क्षाराब्धेस्तादृशस्यानुपकारकतया गर्हा व्यक्तैव ज्ञायते, इहासज्जनगता निन्दापि प्रतीयते; किंतु सा विशेषणद्वारा नेत्यतुल्यविशेषणता ॥