लक्ष्मीत्यादि । स बलिरेव वदान्यः । येन बलिनास्य हरेर्विष्णोः करो हस्तो भिक्षापात्रीकृतो भिक्षापात्रत्वमापादितः । कीदृशः करः । लक्ष्मीस्तनक्रोडकुङ्कुमेनारुणितो लोहितीकृतः । अत्र स्वजातित्वं तुल्यचरितत्वम् । हरिबल्योरपेक्षयान्यत्वमपि ॥ तर्हि समासोक्तिता कथमत आह—संक्षेपेति । संक्षेपेणोपस्थापनादेव समासोक्तित्वमित्यर्थः ॥