नान्यस्योक्तिरनन्योक्तिः । तथाचानन्योक्तिपदेन तद्भावापत्तिस्तत्ता विषयतैवोच्यते । एषोऽयमित्याकारस्तस्याः । मुधेत्यादि । हे सखे, उपप्राकाराग्रं प्राकाराग्रसमीपे नयने नेत्रद्वयं प्रहिणु देहि । मनाक् त्वं तर्कय । अनाकाशे आकाशातिरिक्तदेशे गलितहरिणस्त्यक्तलाञ्छनः कोऽयं शीतकिरणश्चन्द्र इति । कीदृशः । ज्योत्स्नां किरन् विक्षिपन् । कीदृशीम् । मुधा मिथ्या बद्धोऽनुबद्धो ग्रासः कवलो यैरेवंभूतैरुपवनस्थितचकोरैरनुसृतामनुगताम् । स्वच्छाम् । नवा नूतना या लवली लताभेदस्तस्याः पाकस्य प्रणयिनीं प्रश्रयवतीं च । ‘लवली च लताभिदा’ इति विश्वः । लवलीवाचको लवलिशब्दोऽपि । ‘लवलिः श्वेतपार्थपी162 (?) इति शब्दभेदः । उपप्राकाराग्रमित्यत्र सामीप्येऽव्ययीभावः । अत्र अध्यास्य आरोप्य । पूर्वार्धे तुल्यविशेषणत्वमुक्तम्, उत्तरार्धेऽतुल्यविशेषणत्वम् । तस्यैवाभिधानादनन्योक्तिरेकस्यैवाभिधानाच्छुद्धता च ॥

  1. ‘पादपी’ इति स्यात्